वांछित मन्त्र चुनें

अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥

अंग्रेज़ी लिप्यंतरण

akṣībhyāṁ te nāsikābhyāṁ karṇābhyāṁ chubukād adhi | yakṣmaṁ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te ||

पद पाठ

अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥ १०.१६३.१

ऋग्वेद » मण्डल:10» सूक्त:163» मन्त्र:1 | अष्टक:8» अध्याय:8» वर्ग:21» मन्त्र:1 | मण्डल:10» अनुवाक:12» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में शरीर के भिन्न-भिन्न अङ्गों की चिकित्सा करनी चाहिए, सो कैसे-कैसे, यह देखना चाहिए।

पदार्थान्वयभाषाः - (ते) हे रोगी ! तेरे (अक्षीभ्याम्) दोनों आखों से (नासिकाभ्याम्) नासिका के दोनों छिद्रों से (कर्णाभ्याम्) दोनों कानों से (छुबुकात्-अधि) मुख से (मस्तिष्कात्) मस्तिष्क के अन्दर से (जिह्वायाः) जिह्वा के अन्दर से (ते) तेरे (शीर्षण्यम्) शिर में होनेवाले (यक्ष्मम्) रोग को (विवृहामि) दूर करता हूँ ॥१॥
भावार्थभाषाः - आँख, कान, नाक और मुख के रोगों को तथा मस्तक और शिर के प्रधान रोगों को दूर करना चाहिए ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते शरीरस्य भिन्नभिन्नाङ्गानां रोगस्य चिकित्साकरणं विधीयते, कथं कथं च द्रष्ट्रव्यमिति।

पदार्थान्वयभाषाः - (ते) हे रोगिन् ! तव (अक्षीभ्याम्) नेत्राभ्याम् (नासिकाभ्याम्) नासिकाछिद्राभ्याम् (कर्णाभ्याम्) श्रोत्राभ्याम् (छुबुकात्-अधि) मुखादपि “कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्” [अथर्व० १०।२।६] “छुबुकं मुखम्” [वैद्यक-शब्दसिन्धुः] (मस्तिष्कात्) मस्तकस्याभ्यन्तरात् (जिह्वायाः) रसनायाः (ते) तव (शीर्षण्यं यक्ष्मं विवृहामि) शीर्षगतं रोगं पृथक् करोमि ॥१॥